विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सत्य नाडेला |
---|
![](//upload.wikimedia.org/wikipedia/commons/thumb/6/6c/Satya_Nadella.jpg/220px-Satya_Nadella.jpg) |
जन्म | १९ आगस्ट् १९६७ (आयुः ५६) हैदराबाद, भारतम् |
---|
देशीयता | भारतीयः |
---|
शिक्षणस्य स्थितिः | मणिपाल प्रौद्योगिकी संस्थान, विस्कॉन्सिन–मिलवॉकी विश्वविद्यालय, बूथ स्कूल ऑफ बिजनेस, मंगलौर विश्वविद्यालय, मणिपाल विश्वविद्यालय ![Edit this on Wikidata](//upload.wikimedia.org/wikipedia/commons/thumb/7/73/Blue_pencil.svg/10px-Blue_pencil.svg.png) |
---|
वृत्तिः | मैक्रोसाफ्ट्संस्थायाः प्रमुखकार्याधिकारी |
---|
धर्मः | हिन्दुः |
---|
जालस्थानम् | https://news.microsoft.com/exec/satya-nadella/ ![Edit this on Wikidata](//upload.wikimedia.org/wikipedia/commons/thumb/7/73/Blue_pencil.svg/10px-Blue_pencil.svg.png) |
---|
सत्य नाडेला (तेलुगु: సత్య నాదెళ్ల) विश्वविख्यातायाः मैक्रोसाफ्ट्संस्थायाः प्रमुखकार्याधिकारीरूपेण (CEO) नियुक्तः विद्यते।[१][२] अयं स्टीव् बामरस्य उत्तराधिकारिरूपेण २०१४ तमस्य वर्षस्य ४ दिनाङ्के नियुक्तः अस्ति । इतः पूर्वं सः मैक्रोसाफ्ट्संस्थायाः क्लौड् तथा एण्टेर्प्रैज़्-विभागस्य उपाध्यक्षः आसीत् ।[३]
बाल्यं शिक्षणञ्च
सत्यः भारतस्य हैदराबाद्नगरे अजायत ।[४][५] अनन्तपुरस्थे तेलुगुकुटुम्बे प्राप्तजन्मा[६][७][८] अयम् ऐ ए एस् अधिकारिणः बि एन् युगन्धरस्य पुत्रः । युगन्धरवर्यः मनमोहनसिङ्गस्य कालावधौ (२००४-२००९) योजनायोगस्य सदस्यः आसीत्[९][१०] । नाडेल्ल हैदराबादे बेगम्पेट्प्रदेशस्थे हैदराबाद्-पब्लिक-विद्यालये विद्याभ्यासम् अकरोत् ।[११] ततः मणिपाल् इन्स्टिट्यूट् आफ् टेक्नालजीमहाविद्यालये (तदा मङ्गलूरुविश्वविद्यान्तर्गतः आसीत्) तान्त्रिकशिक्षणं प्राप्नोत् ।[१२][१३][१४][१५]
अमेरिकादेशं प्रति गमनानन्तरं विस्कान्सिन्-मिल्वाकी-विश्वविद्यालये सङ्गणविज्ञाने एम् एस् पदवीं, शिकागोविश्वविद्यालयात् एम् बि ए पदवीञ्च प्राप्नोत् ।[१६]
”वस्तुनिर्माणे मम मनः नितरां रमते स्म ।[१७] अतः सङ्गणविज्ञानमेव मदीयं क्षेत्रमिति मम स्पष्टता आसीत् ।[१८] किन्तु मणिपालविश्वविद्यालये सः विषयः नासीत् इत्यतः मया एलेक्ट्रानिक्स्-विषयः पठितः यस्मिन् अग्रे मम अभिरुचिः प्रावर्धत” इति वदति नाडेलः ।[१९]
वृत्तिजीवनम्
नाडेलः आदौ सन्-मैक्रोसिस्टम्स्-संस्थायां तान्त्रिकविभागे कार्यम् अकरोत् ।[२०][२१] ततः १९९२ तमे वर्षे मैक्रोसाफ्ट्-संस्थां प्राविशत् ।मैक्रोसाफ्ट्संस्थायां महत्त्वपूर्णेषु प्रकल्पेषु प्रमुखत्वेन कार्यं निरवहत् ।
मैक्रोसाफ्ट
नाडेलः अन्तर्जालसेवाविभागे संशोधनसंवर्धनस्य ज्येष्ठ-उपाध्यक्षः आसीत् । विक्रयणविभागस्य उपाध्यक्षः आसीत् । ततः सः मैक्रोसाफ्ट्संस्थायाः सर्वर्-टूल्स्-वाणिज्यस्य अध्यक्षः भूत्वा महतः यशसः कारणीभूतः जातः । क्लौड्-अन्तारचना-सेवाकारणतः संस्थायाः लाभप्रमाणं $16.6 बिलियन्-तः (२०११) $20.3 (जून् २०१३) बिलियन्-प्रति अवर्धत ।[२२] क्लौड्-कम्प्यूटिङ्ग्-व्यवस्थापने नाडेलः महत्त्वपूर्णं पात्रम् अवहत् ।[२३]
२०१४ तमस्य वर्षस्य फेब्रवरीमासस्य ४ दिनाङ्के नाडेलः मैक्रोसाफ्ट्संस्थायाः नूतन-प्रमुखकार्याधिकारीरूपेण(CEO) नियुक्तः ।[२४][२५] संस्थायाः इतिहासे तृतीयः प्रमुखकार्याधिकारी जातः ।[२६][२७]
व्यक्तिगतजीवनम्
१९९२ तमे वर्षे तेन अनुपमा परिणीता । इयं पितुः मित्रस्य के आर् वेणुगोपालस्य पुत्री । एतौ पुत्रेण, पुत्रीभ्याञ्च सह वाशिङ्ग्टन्-राज्यस्य बेलेव्यूनगरे निवसतः ।नाडेलः भारतीयकाव्यस्य अमेरिकीयकाव्यस्य वाचकः, क्रिकेट्क्रीडाप्रियश्च वर्तते । स्वीयविद्यालयस्य क्रिकेट्गणस्य सदस्यः अयं, क्रीडातः समूहे कार्यकरणं नायकत्वगुणञ्च अधीतवान् इति वदति ।[२८][२९]
टिप्पणी
बाह्यसम्पर्कतन्तवः