वनस्पतिकषायम्
वनस्पतिपत्रैः निर्मितं कषायम् एव वनस्पतिकषायम् । एषा वनस्पतिः आङ्ग्लभाषायां Centella asiatica इति वदन्ति ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/0/08/Arnica_montana_180605.jpg/150px-Arnica_montana_180605.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/da/DaturaStramonium-plant-sm.jpg/200px-DaturaStramonium-plant-sm.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/90/Veratrum_nigrum_001.jpg/200px-Veratrum_nigrum_001.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/79/Atropa_bella-donna1.jpg/200px-Atropa_bella-donna1.jpg)
अस्य वनस्पतिकषायस्य प्रयोजनानि
- १ एतत् वनस्पतिकषायम् आरोग्यार्थं बहु उत्तमम् ।
- २ वनस्पतिकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना, कीटबाधा, शिरोवेदना इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
- ३ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् वनस्पतिकषायम् पातुं शक्यते ।
- ४ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतादृशं वनस्पतिकषायं दातव्यम् ।
- ५ वनस्पतिकषायस्य पानेन स्मरणशक्तिः अपि वर्धते ।
- ६ अस्य वनस्पतिकषायस्य पानेन रोगनिरोधकशक्तिः अपि वर्धते ।
- ७ एतत् वनस्पतिकषायं विभिन्नैः वनस्पतिपतत्रैः पृथक् पृथक् अपि निर्मातुं शक्यते । सर्वाणि पत्राणि योजयित्वा अपि निर्मातुं शक्यते ।
अस्य वनस्पतिकषायस्य निर्माणम्
वनस्पतिपत्राणि सम्यक् कुट्टनीयानि । अनन्तरं चषकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं, जीरिकाचूर्णं, मरीचचूर्णं, हरिद्रां च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान