ब्रह्मपुराणम्


ब्रह्मपुराणम् (BrahmaPuranam) पुराणानां सूचीषु प्रथमस्थाने स्थितमस्ति । अस्मिन् पुराणे सृष्ट्याः उत्पत्तिः, पृथोः पावनचरित्रं, सूर्य एवं चन्द्रवंशस्य वर्णनं, श्रीकृष्णचरित्रं, कल्पान्तजीविनः मार्कण्डेयमुनेः चरित्रं, तीर्थानां माहात्म्यं, भक्तिविषयादिषु चर्चा च कृता अस्ति। भगवतः श्रीकृष्णस्य ब्रह्मरूपस्य विस्तृतव्याख्यायाः कारणेन इदं ब्रह्मपुराणमिति नाम्ना प्रसिद्धमस्ति। [१] अस्मिन् पुराणे साकारब्रह्मणः उपासनायाः विधानमपि वर्तते। पुराणे 'ब्रह्म' तत्त्वाय सर्वोपरि मान्यता विद्यते। अतः एव अस्य पुराणस्य प्रथम स्थानं प्रदत्तमस्ति। पुराणानां परम्परानुसारेण ब्रह्मपुराणे सृष्टौ विद्यमानानां समस्तलोकानां तथा भारतवर्षस्यापि वर्णनम् अस्ति। कलियुगस्य वर्णनञ्च अस्मिन् पुराणे विस्तारपूर्वकं कृतमस्ति। [२] ब्रह्मणः आदि तत्त्वं निरूपयति इति कारणेन इदं पुराणम् आदिपुराणमित्यपि कथ्यते। व्यासमुनिना रचिते अस्मिन् पुराणे दश सहस्रं श्लोकाः सन्ति। प्राचीनपवित्रभूमौ नैमिषारण्ये व्यासस्य शिष्येण सूतमुनिना ऋषिवृन्दानां समूहे इदं पुराणं प्रोक्तमिति कथ्यते। अस्मिन् पुराणे सृष्टिः, मनुवंशः, देवदेवताः, प्राणिः, पृथ्वी, भूगोलं, नरकः, स्वर्गः, मंदिरं, तीर्थम् इत्यदीनां निरूपणम् अस्ति। शिवपार्वत्योः विवाहः, कृष्णलीला, विष्णोः अवतारः, विष्णुपूजनं, वर्णाश्रमः, श्राद्धकर्म इत्यादीनां विचारः अपि अत्रास्ति। [३]

ब्रह्मपुराणम्  
लेखकवेदव्यासः
देशभारत
भाषासंस्कृतम्
शृंखलापुराणम्
विषयविष्णुः, शिवः, ब्रह्माः भक्तिः
प्रकारप्रथम वैदिक पुराण ग्रंथहः
पृष्ठ१०,००० श्लोकानि
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

कथाविवरणम्

सम्पूर्ण 'ब्रह्म पुराणे २४६ अध्याया सन्ति। अस्मिन् पुराणे दशसहस्रश्लोकानि सन्ति। [४]

संदर्भ

बाहरी लिंकानि

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ब्रह्मपुराणम्&oldid=480686" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान