नागौर

नागौर ( /ˈnɑːɡɔːrə/) (हिन्दी: नागौर, आङ्ग्ल: Nagaur) राजस्थानराज्ये स्थितस्य नागौरमण्डलस्य केन्द्रम् अस्ति । नागौर-नगरस्य स्थापना नागवंशिभिः कृता इति तस्य नाम्ना ज्ञायते [१] । एतस्य नगरस्य स्थापना द्वितीयायाम् उत तृतीयायां शताब्द्याम् अभवत् । यतो हि कुषाण-जनानां विरुद्धं नागवंशिनः आहताः अभूवन् । ततः वाकाटक-वंशीयाः, गुप्तवंशीयाः च सम्राजः तेषाम् उन्मूलनम् अकुर्वन् । अहिच्छत्रपुरं, नागपुरं, नागपट्टनम्, अहिपुरं, भुजङ्गनगरं च नागौर-नगरस्य नामान्तराणि ।

नागौर

Nagaur

नागण देस
नगरम्
नागौरदुर्गम् नागौर (Rajasthan)
नागौरदुर्गम्
नागौर is located in Rajasthan
नागौर
नागौर (Rajasthan)
Nickname(s): 
नागिणो
Coordinates: २७°१२′उत्तरदिक् ७३°४४′पूर्वदिक् / 27.2°उत्तरदिक् 73.73°पूर्वदिक् / २७.२; ७३.७३ ७३°४४′पूर्वदिक् / 27.2°उत्तरदिक् 73.73°पूर्वदिक् / २७.२; ७३.७३
देश) India
राज्यम्राजस्थानराज्यम्
मण्डलम्नागौर
Government
 • Typeलोकतन्त्रम्
 • Bodyमण्डलाध्यक्षः
 • सांसदःसी आर् चौधरी
 • collectordr.veena pradhan
Area
 • Total१७,७१८ km
Elevation
३०२ m
Population
 (2011)
 • Total३३,४०,२३४
 • Density१९०/km
भाषाः
 • आधिकारिक्यःहिन्दी
 • स्थानिकाःमारवाडी
Time zoneUTC+5:30 (IST)
Vehicle registrationRJ-21
Websitehttp://nagaur.rajasthan.gov.in/

नागौर-नगरस्य सुन्दरतायाः वर्णनं कुर्वन् मोहम्मद हलीम सिद्दीकी इत्येषः अलिखत्, प्रत्येकेन दृष्टिकोणेन नागौर-नगरम् अत्यन्तं सुन्दरं नगरम् आसीत् । नागौर-नगरात् २ माइल दक्षिणपूर्वदिशः सौन्दर्यं नागौर-नगरस्य मुख्याकर्षणम् आसीत् । एतत् नगरम् परितः काश्चित् दीर्घा भित्तिका आसीत् । तस्याः भित्तिकायाः दैर्घ्यं ४ माइल् आसीत् । तस्याः भित्तिकायाः औन्नत्यं प्रदेशानुसारम् आसीत् । कुत्रचित् सा भित्तिका २.५ फीट्, अन्यत्र ५ फीट्, अपरत्र १७ फीट् च उन्नता आसीत् । नागौर-नगरस्य षट्द्वाराणि आसन् । तेषु द्वारेषु त्रीणि दक्षिणदिशायाम्, चतुर्थद्वारम् उत्तरदिशायां, पञ्चमद्वारं पश्चिमदिशायां, षष्ठमद्वारं पूर्वदिशायां च आसन् । एतानि षड्द्वाराणि क्रमेण अजयमेरुद्वारं, जोधपुरद्वारं, नखासद्वारं, भायाद्वारं, देहलीद्वारं च प्रसिद्धानि । नागौर-नगरे अनेके देवनागरीलिप्या, फारसी-लिप्या च लिखिताः शिलालेखाः प्राप्यन्ते । नागौर-नगरात् अनेकाः देवमूर्तयः प्राप्ताः । ताः मूर्तयः नागौर-नगरस्य मन्दिरेभ्यः, गृहेभ्यः, समाधिस्थलेभ्यः, यवनप्रार्थनागृहेभ्यः च प्राप्ताः ।

भौगोलिकम्

नागौर-पत्तनं २७.२ उत्तराक्षांशे, ७३.७३ पूर्वदेशान्तरे च स्थितम् अस्ति । नागौरपत्तनस्य पूर्वदिशि जयपुरं, दक्षिणदिशि अजमेर-महानगरं, पाली-पत्तनं, जोधपुर-महानगरं च, पश्चिमदिशि जोधपुर-महानगरम्, उत्तरदिशि बीकानेर-नगरं, सीकरमण्डलं चास्ति ।

अहिच्छत्रपुरत्वेन नागौर

बिजौलिया-शिलालेखे सूचना प्राप्यते यत्, अहिच्छत्रपुरस्य वत्सगोत्रे उत्पन्नः वासुदेवाख्यः (चौहानवंशीयः राजा) सामन्तः शाकम्भर्याः शासकः अभवत् [२] । पृथ्वीराजविजयमहाकाव्ये वासुदेवस्य वर्णनं प्राप्यते यत्, एकदा सः आखेटाय वनम् अगच्छत् । तत्र विद्याधराख्येन गन्धर्वेण सह तस्य सम्पर्कः अभवत् । तस्य गन्धर्वस्य आशीर्वादेन वासुदेवः शाकम्भरीदेव्याः दर्शनं कर्तुं शक्तवान् । शाकम्भरीदेव्याः वरदानेन वासुदेवः लावणजलाशयं प्रापत् । यस्मिन् दिने वासुदेवः शाकम्भरीदेव्याः वरदानेन लावणजलाशयं प्रापत्, तस्यां रात्रौ शाकम्भरीदेव्याः मन्दिरे एव अशेत (शयनम् अकरोत्) । प्रातः यदा सः जागृतः, तदा सः शाकम्भरीदेव्याः दर्शनं कृत्वा राजधानीम् अगच्छत् [३]

कर्नल् जेम्स् टॉड् इत्यस्य गुरुः यतिः ज्ञानचन्द्रः 'माण्डल मेवाड' इत्याख्ये सङ्ग्रहे पञ्चविंशतिदेशानां राजधानीनाम् उल्लेखम् अकरोत् । तस्यां सूचौ अपि जाङ्गलदेशस्य राजधानी अहिच्छत्रपुरं प्राप्यते । सन्धुदेशे अहिच्छत्रपुराख्यस्य नगरस्य अवस्थितिविषये भैरणमत्ति-शिलालेखेऽपि उल्लिखितम् अस्ति [४] । इतिहासविदां मतानुसारं जाङ्गलप्रदेशस्य राजधानी अहिच्छत्रपुरम् आसीत् [५] । परन्तु पृथ्वीराजविजयमहाकाव्ये जयानकः वासुदेवस्य राजधान्याः नाम नोल्लिखितवान् । अतः इतिहासवित्सु वैमनस्यम् अस्ति यत्, चौहानवंशीयानां राजधानी अहिच्छत्रपुरं कुत्र आसीत् ? इति । सम्पूर्णे भारतवर्षे अहिच्छत्रपुराख्याः अनेके ग्रामाः विद्यन्ते । 'बॉब्बे गेजेटियर्' मध्ये अनेकेषां ग्रामाणां नाम अहिच्छत्रपुरं प्राप्यते [६] । अतः विवादः अधिकः उग्रः अभवत् । जनरल कनिंघम इत्यस्य इतिहासविदः मतानुसारम् अहिच्छत्रपुरम् उत्तरप्रदेशस्य रामनगरस्य पार्श्वे अस्ति । सः ग्रामः सद्यः अहिच्छत्रा इति प्रसिद्धः । सः ग्रामः बदाऊँ सदर इत्याख्यात् स्थलात् २० माइल् दूरे अवस्थितः [७] । परन्तु पृथ्वीराजविजयमहाकाव्ये उल्लिखितम् अस्ति यत्, वासुदेवस्य राजधानी लावणजलाशयस्य समीपे एव कुत्रचिदस्ति इति । एतस्य उल्लेखस्य आधारेण इतिहासविदः जनरल कनिंघम इत्यस्य मतस्य खण्डनम् अकुर्वन् [८]

जनरल कनिंघम इत्यनेन यः ग्रामः अहिच्छत्रपुरग्रामत्वे परिलक्षितः, तस्य ग्रामस्य भौगोलिकम् असातत्यम् उपस्थापयन् डॉ. गौरीशङ्कर हीरचन्द ओझा अलिखत्, सः अहिच्छत्रा-ग्रामः उत्तरपाञ्चालदेशस्य राजधानी आसीत् । स्वमतं समर्थयितुं सः चीन-देशीयस्य यात्रिणः हुएन्त्सङ्ग-महोदयस्य "सी-यी-की" इत्याख्यस्य पुस्तकस्य उल्लेखम् अकरोत् । यतो हि तस्मिन् पुस्तकेऽपि हुएन्त्सङ्ग-महोदयः अहिच्छत्रा-ग्रामम् उत्तरपाञ्चालदेशस्य राजधानीत्वेन उदलिखत् [९][१०]

डॉ. गौरीशङ्कर हीरचन्द ओझा-महोदयः वर्तमानं नागौरनगरम् एव अहिच्छत्रपुरत्वेन परिगणयति । यथा ओझा-महोदयः नागौर-नगरम् एव अहिच्छत्रपुरत्वेन परिगणयति, तथैव दीवान बहादुर हरविलास सारदा इत्येषः महोदयः अपि नागौर-नगरम् एव अहिच्छत्रपुरत्वेन परिलक्षति । तस्य तर्कः अस्ति यत्,

१.सामन्तराजस्य राजधानी अहिच्छत्रपुरम् आसीत् ।

२.शाकम्भरीलावणजलाशयस्य पार्श्वे एव नागौर-नगरम् अवस्थितम् अस्ति ।

३.अहिच्छत्रपुरं, नागौर इत्येतौ शब्दौ समानार्थकौ स्तः । नागपुरम् अर्थात् नागानां नगरम् इति भवति । तथैव अहिच्छत्रपुरस्यार्थः यस्य नगरस्य छत्रम् उत रक्षणं नागाः कुर्वन्ति इत्येव भवति ।

सारदा-महोदयस्य मतानुसारं प्राचीनकाले संस्कृतकविषु समानार्थकशब्दानाम् अधिकोपयोगस्य प्रथा आसीत् । यथा चन्द्रराजः बिजौलिया-शिलालेखे शशिनृपत्वेन [११] उल्लिखितः, तथैव नागौर-नगरस्य विषयेऽपि अभवत् इति ।

इतिहासः

६४७ ख्रीष्टाब्दात् पूर्वं चौहानवंशीयाः नागौर-नगरं स्वराजधानीत्वेन अघोषयन् । परन्तु ततः द्विशतं वर्षं यावत् तत्र कन्नौजराज्यस्य शासकानां राज्यम् आसीत् । ८५६ ख्रीष्टाब्दे तत्र डीडवाना-प्रदेशपर्यन्तं कन्नौजप्रदेशीयस्य महिरिभोजस्य शासनम् आसीत् [१२] । ततः १११२ ख्रीष्टाब्दोत्तरं गझनी-प्रदेशीयाः तुर्कजनाः नागौर-नगरे आधिपत्यम् अस्थापयन् । तदा नागौर-नगरे बहराम शाह इत्यस्य विश्वस्तः मोहम्मद बाल्हीम इत्येषः नागौर-दुर्गस्य जीर्णोद्धारम् अकारयत् । सः ततः तद्दुर्गमेव केन्द्रत्वेन उपयुज्य तत् दुर्गं परितः स्थितानि स्थानानि लुण्ठयितुं गच्छति स्म । यदा तस्य पार्श्वे लुण्ठितधनम् अधिकम् अभवत्, तदा तस्य सैन्यशक्तौ अपि वृद्धिः अभवत् । अतः सः नागौर-प्रदेशस्य सम्राट् भवितुम् इच्छति स्म । तस्मात्प्रागेव बहराम शाह इत्यस्य पुत्राः बहराम इत्यस्य हत्याम् अकुर्वन् । बहराम इत्यस्य हत्यानन्तरं तस्य उत्तराधिकारी भारतीयप्रदेशानां शासकत्वेन सालार हुसैन इत्येनं न्ययुङ्क्त । परन्तु ततः अर्णोराजः सालार हुसैन इत्येनं युद्धे पराजित्य नागौर-नगरं परितः स्थितं सम्पूर्णं प्रदेशं वैदेशिकेभ्यः मुक्तम् अकरोत् ।

अर्णोराजस्य काले गुजरातराज्यस्य शासकः जयसिंहः आसीत् । जयसिंहः नागौर-नगरं स्वाधीनं कर्तुम् इच्छति स्म । अतः सः नागौर-प्रदेशस्य उपरि आक्रमणम् अकरोत् । परन्तु यदा सः नागौर-नगरस्य समीपं प्रापत्, तदा तेन ज्ञातं यत्, नागौर-नगरे जैनाचार्यः देवसूरिमहाराजः राराजते इति । अतः सः स्वसेनया सह प्रत्यगच्छत् । परन्तु स्वल्पे काले एव सः पुनः नागौर-प्रदेशम् आक्रम्य नागौर-प्रदेशस्योपरि आधिपत्यम् अस्थापयत् । अर्णोराजेन सह युद्धे प्राप्तविजयः जयसिंहः स्वपुत्र्याः कञ्चनदेव्याः विवाहम् अर्णोराजेन सह अकारयत् । तयोः अर्णोराजकञ्चनदेव्योः पुत्रः सोमेश्वरः अभवत् । सोमेश्वरस्य पुत्रः अन्तिमहिन्दुराजत्वेन प्रसिद्धः भारतेश्वरः पृथ्वीराजः अभवत् ।

चालुक्यवंशीयस्य कुमारपालस्य गुरोः हेमचन्द्रसूरिमहाराजस्य नागौर-नगरेण सह घनिष्ठसम्बन्धः आसीत् । ११०५ ख्रीष्टाब्दे नागौर-नगरे जैनाचार्यः देवसूरिमहाराजः हेमचन्द्रसिरिमहाराजम् आचार्यत्वेन अघोषयत् । हेमचन्द्रसूरिमहाराजस्य पराशक्तिभिः वशीभूतः अर्णोरजस्य ज्येष्ठपुत्रः जगद्देवः अर्णोराजस्य हत्याम् अकरोत् । अर्णोराजस्य हत्यायाः अनन्तरं अजयमेरौ गृहयुद्धस्य आरम्भः अभवत् । तस्मिन् युद्धे विग्रहराजाख्यः अर्णोराजस्य अन्यपुत्रः ज्येष्ठभ्रातुः जगद्देवस्य वधम् अकरोत् । ततः विग्रहराजः अजयमेरोः शासकः अभवत् ।

यदा अजयमेरौ गृहयुद्धस्य स्थितिः आसीत्, तदा अवसरस्य लाभं स्वीकृत्य जैनाचार्येण हेमचन्द्रसूरिमहाराजेन नागौर-नगरे विहाराणां निर्माम् आरब्धम् । परन्तु यदा विग्रहराजः आचार्यस्य निर्माणकार्यविषये सूचनां प्रापत्, तदा सः तत् निर्माणकार्यं स्थगयितुम् आदेशम् अयच्छत् । विग्रहाराजः जैनाचार्यात् विहारस्य भूमिम् अपि अपाकर्षयत् । यदा कुमारपालः स्वगुरोः अपमानस्य समाचारं प्रापत्, तदा सः अण्हिलपाटण-प्रदेशात् विग्रहराजस्योपरि आक्रमणं कर्तुं नागौर-नगरं प्रतिष्ठत । परन्तु मार्गे एव चितौड-प्रदेशस्य समीपे विग्रहाराजेन सह तस्य घोरयुद्धम् अभवत् । तस्मिन् युद्धे चालुक्यसेनायाः उपरि आक्रमणं कृत्वा सज्जन-आख्यं दण्डनायकं विग्रहाजः अमारयत् । विग्रहराजः चालुक्यवंशीयानां गजसेनायाः उपरि आधिपत्यम् अस्थापयत् । तस्मिन् काले कुमारपालेन गुजरातराज्यं प्रति पलायनं कर्तुं प्रयासः कृतः । परन्तु कुमारपालस्य सर्वान्नपि सामन्तान् पराजित्य विग्रहराजः कुमारपालस्य प्रतिगमनस्य सर्वान् मार्गान् अवारोधयत् । विग्रहराजः चालुक्यसाम्राज्यस्य यान् सामन्तान् पराजयत, तेषु रकाब-नाडोल-जालोर-प्रदेशानां सामन्ताः अन्तर्भवन्ति । तस्मिन् युद्धे येन केन प्रकारेण कुमारपालः गुजरातराज्यं प्रापत् ।

विग्रहराजः जैनमतस्य विरोधी नासीत्, परन्तु सः हिन्दुधर्मस्य बलिदानेन जैनधर्मस्य प्रचारं कर्तुं नेच्छति स्म । सः जैनमतस्य विस्तारम् इच्छति स्म, परन्तु तस्य कृते हिन्दुधर्मस्योपरि कुठाराघातः न भवेत् इत्येव तस्य इच्छा आसीत् । कुमारपालस्य प्रस्तावः आसीत् यत्, सम्पूर्णे सपादलक्षसाम्राज्ये जैनधर्मस्य अनुशासनं भवदेति । कुमारपालस्य तं प्रस्तावं विग्रहराजः दृढतापूर्वकं निराकरोत् । परन्तु विग्रहराजः जैनाचार्यस्य धर्मघोषसूरिमहाराजस्य सम्माननं करोति स्म । अतः तस्य जैनाचार्यस्य इच्छानुसारं सम्पूर्णे सपादलक्षसाम्राज्ये एकादश्यायां तिथौ पशुवधाय निषेधः घोषितः विग्रहराजेन ।

११९२ ख्रीष्टाब्दे द्वितीयनरायनयुद्धे पृथ्वीराजस्य पराजयानन्तरं सम्पूर्णे सपादलक्षसाम्राज्ये तुर्कजनानाम् आधिपत्यं पुनः स्थापितम् अभवत् । अर्णोराजेन तुर्कजनेभ्यः यः नागौर-प्रदेशः स्वतन्त्रः कृतः आसीत्, सः पुनः तुर्कजनानाम् आधिपत्ये आसीत् । घोरी इत्यस्य आदेशेन ११९५ ख्रीष्टाब्दे नागौर-प्रदेशस्य शासकत्वेन मुहम्मद बख्तियार खल्जी इत्यस्य नियुक्तिः अभवत् । देहल्याः शासकः अल्तमश इत्येषः नागौर-प्रदेशे टङ्कशालाम् (mint) आरभत । तस्यां टङ्कशालायां देहल्याः शासकस्य नाम्ना मुद्रायाः निर्माणं भवति स्म । तस्यां मुद्रायां नागौर-नगरस्यापि नाम अङ्कितं भवति स्म [१३]

१२५३ ख्रीष्टाब्दे नागौर-नगरं खाने आजम बलबन इत्यस्य आधिपत्ये आसीत् । 'कामाख्यां रासा'-पुस्तकानुसारं मण्डोर-प्रदेशीयेन राठौड राव चूण्डा इत्यनेन नागौर-नगरस्योपरि आधिपत्यं स्थापितम् । ततः 'क्वमखां' इत्येषः यः हिसार-प्रदेशस्य शासकः आसीत्, तस्य खिदिर खां इत्यस्य च संयुक्तप्रयत्नेन राठौड राव चूण्डा इत्यस्य पराजयः अभवत् [१४]

नागौर-प्रदेशस्य विभागद्वयम्

पञ्चदश्यां शताब्द्यां नागौर-नगरस्य साम्राज्ये शम्स् खाँ दन्दानी इत्यस्य अधिकारः अभवत् । शम्स् खाँ दन्दानी इत्येषः गुजरातराज्यस्य शासकस्य जाफर खान इत्यस्य अनुजः आसीत् । शम्स् खाँ इत्येनेन नागौर-प्रदेशस्य जलाज खाँ खोखन इत्याख्यं शासकं पराजित्य नागौर-प्रदेशस्य शासनम् अपाहृतम् । १४११ ख्रीष्टाब्दात् शम्स् खाँ इत्येषः महाराणा मोकल इत्येनन सह युद्धरतः आसीत् । शम्स् खाँ इत्यस्य मरणोत्तरं तस्य पुत्रः फीरोज खाँ नागौर-प्रदेशस्य शासकः अभवत् । ततः फीरोज खाँ इत्येषः अपि महाराणा मोकल इत्येनेन सह युध्यमानः आसीत् ।

१४२८ ख्रीष्टाब्दे रचिते ॠङ्गिशिलालेखे उल्लेखः प्राप्यते यत्, महाराणा मोकल इत्यस्मात् फीरोज खाँ इत्येषः पराजितः इति [१५] । फीरोज खाँ इत्यस्य पराजयानन्तरं महाराणा मोकल इत्येनेन पुष्करक्षेत्रे सुवर्णतुलादानं कृतम् आसीत् । फीरोज खाँ इत्येषः स्वपराजयस्य प्रतिशोधाय हिसारप्रदेशीयेन ताज खाँ इत्येनेन, अहमद खाँ इत्यनेन च सह सन्धिम् अकरोत् । ततः फिरोज खाँ इत्येषः महाराणा मोकल इत्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे महाराणा मोकल इत्यस्य पराजयः अभवत् । मोकल इत्यस्य पराजयेन तस्य सेनायाः हस्तिषु, अश्वेषु च आक्रमणकारिणाम् आधिपत्यम् अभवत् [१६] । महाराणा मोकल इत्यस्य हस्तिनाम्, अश्वानां च विभाजनकाले ताज खाँ, फिरोज खां इत्येतयोः मध्ये युद्धम् अभवत् । तस्मिन् युद्धे फीरोज खाँ इत्यस्य मृत्युः अभवत् । ततः फीरोज खाँ इत्यस्य अनुजः मुजाहिद खाँ इत्येषः नागौर-प्रदेशस्य शासकः अभवत् । परन्तु केषुचिद्दिनेषु एव मुजाहिद खाँ इत्यस्य भ्रातृजः शम्स् खाँ द्वितीय इत्येषः चित्तौडप्रदेशीयेन महाराणा कुम्भा इत्येनन सह सन्धिं कृत्वा स्वपितृव्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे मुजाहिद खाँ इत्येषः पराजितः । ततः नागौरप्रदेशस्य विभागद्वयम् अभवत् । नागौर-प्रदेशाख्ये प्रथमे विभागे शम्स् खाँ द्वितीय इत्येषः शासनं करोति स्म । नागौर-प्रदेशस्य अपरभागे यस्मिन् साम्भर-नरायना-डीडवाना-नगराणि आसन्, तस्मिन् द्वितीये भागे मुजाहिद खाँ इत्यस्य शासनम् आसीत् ।

शम्स् खाँ (द्वितीय) इत्यस्य उत्तराधिकारी फीरोज खाँ (द्वीतीय) इत्येषः अभवत् । फिरोज खाँ (द्वितीय) इत्येषः १४८४ ई. पर्यन्तं नागौर-प्रदेशस्योपरि शासनम् अकरोत् । तस्य वंशजः अन्तिमशासकः मुहम्मद खाँ इत्येषः आसीत् । सः १४४८ ख्रीष्टाब्दात् १५२८ ई. पर्यन्तं नागौर-प्रदेशस्योपरि शासनम् अकरोत् ।

अन्यवंशीयानाम् आधिपत्यम्

साहित्यिकविवरणैः ज्ञायते यत्, नागौर-प्रदेशे कदापि लोदीवंशीयानाम् अपि शासनम् आसीत् इति । परन्तु तेषां शासनकालः अति स्वल्पः आसीत् । ततः १५३३ ई. पुरा एव नागौर-प्रदेशः सूरवंशीयानाम् दृढसाम्राज्यम् आसीत् । नागौर-प्रदेशे स्थिते एकस्मिन् यवनप्रार्थनागृहे (मस्जिद्) कश्चन शिलालेखः प्राप्यते । तस्मिन् उल्लिखितम् अस्ति यत्, सूरवंशीयेन इस्लाम शाह इत्यनेन १५३३ ख्रीष्टाब्दे यवनप्रार्थनागृहस्य निर्माणं कारितम् इति [१७]

सूरवंशस्य अवसानोत्तरं मुगघलवंशीयः अकबर इत्येषः नागौर-प्रदेशे आधिपत्यम् अस्थापयत् । सोऽपि नागौर-प्रदेशे अनेकेषां यवनप्रार्थनागृहाणां निर्माणम् अकारयत् । १५७२ ख्रीष्टाब्दे अकबर इत्येषः नागौर-प्रदेशस्य शासनं बीकानेर-प्रदेशीयाय रायसिंह राठौड इत्यस्मै नागौर-प्रदेशस्य शासनं प्रादात् । ततः शाहजहाँ इत्यस्य काले अमरसिंह राठौड इत्येषः नागौर-शासकत्वेन नियुक्तः अभवत् । १६४४ ख्रीष्टाब्दे अमरसिंहस्य मरणोत्तरमपि नागौर-प्रदेशे तस्य वंशजाः शासनम् अकुर्वन् । ततः अष्टादश्यां शताब्द्यां जोधपुरस्य शासकेन नागौर-प्रदेशः स्वराज्ये अन्तर्भावितः ।

जैनतीर्थत्वेन नागौर

प्राच्यकालादेव जैनधर्मस्य पवित्रस्थलत्वेन नागौर-नगरं परिगण्यते स्म । कालान्तरे नागौर-नगरे अनेकेषां जैनाचार्याणां, जैनश्रावकानां च आवागमनम् आसीत् । नागौर-प्रदेशे विकसितेन शिल्पकलायाः व्यापारेण चतसॄषु दिक्षु नागौर-प्रदेशस्य ख्यातिः व्याप्ता । तस्मिन् काले निर्मिताः धनिकानां प्रासादाः अद्यापि नागौर-प्रदेशस्य स्थापत्यकलायाः साक्ष्यं पूरयन्ति । नागौर-प्रदेशः जैनाचार्यस्य हेचन्द्रसूरिमहाराजस्य प्रियस्थलम् आसीत् । सः प्रकाण्डः वैयाकरणः अनेकेषां ग्रन्थानां रचनां नगरेऽस्मिन् अकरोत् ।

नागौरदुर्गम्

भारतीयशिल्पशास्त्रे दुर्गाणाम् अनेकानि प्रकाराणि प्राप्यन्ते । तेषु किञ्चन धन्वदुर्गम् अपि परिगण्यते । धन्वदुर्गाणि सम्पूर्णराजस्थाने केवलं नागौर-नगरे एव प्राप्यन्ते । मनुस्मृतेः सप्तमाध्यायस्य सप्ततितमे श्लोके धन्वदुर्गस्य व्याख्या प्राप्यते ।

धन्वदुर्गं महीदुर्गं अब्दुर्गं वार्क्षं एव वा ।

नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् । । ७.७० । । मनुस्मृतिः

तत्रैव उल्लेखः प्राप्यते यत्, धन्वदुर्गं परितः दशक्रोशं यावत् जलरहितस्थलं स्यादिति । अनेन स्पष्टं भवति यत्, मरुभूमौ यानि दुर्गाणि भवन्ति तानि धन्वदुर्गत्वेन परिगण्यन्ते । तत् धन्वदुर्गं द्विधा उक्तम् । निरुदकम्, ऐरिणञ्च । जलवनस्पतिविहीनायां मरुभूमौ विद्यमानं दुर्गं निरुदकम् उच्यते । राजस्थानस्य जेसलमेरदुर्गं, हनुमानगढ-स्थानस्य दुर्गं (भटनेरदुर्गं) च निरुदकदुर्गेषु अन्तर्भवतः । ऐरिणदुर्गम् अर्थात्, यत्र प्राच्यकाले जलं लावणिकं स्यात् । अतः नागौर-नगरस्य दुर्गम् ऐरिणदुर्गेषु अन्तर्भवति [१८] । राजस्थानराज्यस्य अधिकानि दुर्गाणि गिरिकायाः शिखरे विद्यमानानि सन्ति ।

नागौर-नगरस्य धन्वदुर्गः राजस्थाने अन्यत्र कुत्रापि न प्राप्यते । इतिहासविदां मतानुसारम् एतत् नगरं हडप्पा-संस्कृतेः नगराणां श्रेण्याम् अन्तर्भावयितुं शक्नुमः, परन्तु एतावता तस्मिन् परिप्रेक्ष्ये न किमपि संशोधनम् अभवत् । तथापि नागौर-नगरे, तं परितः च ये पुरातत्त्वावशेषाः प्राप्यन्ते, तैः सिध्यति यत्, एतस्मिन् प्रदेशे प्राच्यकाले नागवंशीयानां शासनम् आसीत् । नागौर-नगरस्य दुर्गस्य, वीथिकानां, मार्गाणां च विकासः नागवंशीयानां काल एव अभवत् ।

नागौरनगरस्य समीपे एकस्यां गिरिकायां किञ्चित् विशालदुर्गं विद्यमानम् अस्ति । प्राचीनकाले तत् दुर्गं अनेकेषु शक्तिशालिदुर्गेषु अन्यतमम् आसीत् । तस्य दुर्गस्य विस्तारः १ माइल् यावत् मन्यते । तस्य दुर्गस्य परिधिः द्वयोः प्राचीरयोः आच्छादितः अस्ति । दुर्गस्य बाह्यप्राचीरः पृथ्वीतलात् २५ फीट्-परिमितः उन्नतः, आन्तरिकप्राचीरः पृथ्वीतलात् ५० फीट्-परिमितः उन्नतः मन्यते । तौ प्राचीरौ पृथ्वीतले ३० फीट्-परिमितौ लम्बमानौ वर्तेते । तौ प्राचीरौ यावत् उन्नतां प्राप्नुवतः, तावत् तयोः उन्नतभागस्य लम्बता क्रमेण न्यूना भवति । एवं लम्बतायाः न्यूनतायाः कारणेन ३० फीट्-परिमितौ लम्बमानौ प्राचीरौ उन्नतभागे १२ फीट्-परिमितौ लम्बमानौ एव भवतः । दुर्गस्यास्य अष्टद्वाराणि सन्ति । षट्द्वाराणि अग्रभागे, द्वारद्वयं पृष्ठभागे च । तेषां द्वाराणां नामानि क्रमशः सिराई-द्वारं, विचलीद्वारं, सूरजद्वारं, राजद्वारं, कचहरीद्वारं, धूणीद्वारञ्च । तं दुर्गं परितः उपत्यका (valley) अस्ति ।

नागौर-दुर्गस्य विशेषतायां मुख्यत्वेन दुर्गं परितः विद्यमाना उपत्यका, उच्चप्राचीरौ, विशालद्वाराणि, कलाप्राचूर्यं च अन्तर्भवति । दुर्गस्य अलङ्कृतेन राजप्रासादेन प्राच्यकाले नागौरदुर्गस्य विपुलतायाः प्रत्यक्षज्ञानं भवति । राज्ञीनिवासस्य चित्रकला अद्यापि पर्यटकानां मनः मोहयति । दुर्गे एकः लघुः जलप्रपातः वर्तते । दुर्गे विद्यमानः स्नानागारः शिल्पकालायाः अद्भुतम् उदाहरणम् अस्ति । नागौरदुर्गे यत्किमपि विद्यमानम् अस्ति, तत् सर्वम् अद्वितीयं, विस्मयजनकं च अस्ति । नागौरदुर्गस्य रम्यतायाः वर्णनं कुर्वन् कण्ठहाराख्यः कविः अलिखत्,

खाटू तो सियाळै भलौ, उनाळै अजमेर ।

नागाणो नित नित भलौ, सावण बीकानेर ।।

अर्थात्, शरदर्तौ खाटू-प्रवासः, ग्रीष्मर्तौ अजमेरप्रावासः, वर्षर्तौ बीकानेरप्रवासः च उत्तमः, परन्तु नागौरप्रवासः सर्वेषु ऋतुषु उत्तमः इति ।

सम्बद्धाः लेखाः

उद्धरणम्

अधिकवाचनाय

राजस्थाने नागौर

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=नागौर&oldid=442931" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान