दुष्टः स्वप्नं न पश्यति

दुष्टः स्वप्नं न पश्यति इति जापानदेशे ज्ञातो जापान-देशीयो लघु-उपन्यासो हाजिमे-कमोषिदेन लिखतः केजि-मिज़ोगुचिना चित्रीकृतश् च। 2014 तमे वर्षे अप्रैल-मासाद् आरभ्य देङ्गेकी-बुन्को-इति वाणिज्यिक-नाम्ना 12 पर्वाणि प्रकाशितानि आस्की-मीदिया-वाक्सु-संस्थया।

2015 तमे वर्षे दिसम्बर-मासाद् आरभ्य आस्की-मीदिया-वाक्सु-संस्थायाः देङ्गेकी-जीसु-कोमिक्कु इति युवा-चित्र-कथा-पत्रिकायां चित्र-कथा-पुस्तक-अभियोजनम् अपि धारावाहिक-रूपेण प्रकाशितम्। प्रथम-पञ्च-पर्वसु आधारितं किञ्चन चित्रचालन-अभियोजनं कुरोबावाकुसु-चित्रकर्म-गृहेण रचितं 2018 तमे वर्षे अक्तोबरतो दिसम्बर-पर्यन्तं प्रसारितम्। षष्ठ-सप्तम-पर्वणोः आधिरितं "दुष्टः स्वप्नं पश्यन्तीं कन्यां स्वप्ने न पश्यति" इति नाम्ना जीवीकृत-चलचित्रं यस्य 2019 तमे वर्षे जून्-मासे प्रथम-दर्शनं जातम्। "दुष्टः स्वप्ने बहिर्गच्छन्तीं स्वसारं न पश्यति" इति नाम्ना अष्टम-नवम-पर्वणोः आधारितं द्वितीयं जीवीकृत-चलचित्रं 2023 तमे वर्षे जून्-मासे प्रथम-दर्शनं भविष्यति।

आधारिका

उच्च-विद्यार्थी अज़ुसगाव-साकुटः जीवनम् अनपेक्षितं परिवर्तते यदा सः शशक-वेशभूषां धरन्तीं ग्रन्थालये केनापि अलक्षिताम् अटन्तीं किशोरीम् अभिनेत्रीं साकुरजीमा-मायीं मिलति। यदा सा साधारण-वस्त्राणि धरति अथवा विश्रुतेर् दूरीभवति तदापि अन्येषु तां द्रष्टुम् अशक्तेषु सत्सु अपि किमर्थं केवलं साकुटः एकैको येन तां द्रष्टुं शक्यते इति मायी ज्ञातुम् इच्छुका भवति। इयं घटना कौमार्य-रोग-लक्षणम् इति वदन् साकुटो रहस्यस्य समाधानस्य अन्वेषणं कर्तुं निश्चयं करोति। सममेव सः माय्या सह स्नेहं वर्धयन् अन्याभिः कन्याभिर् अपि मिलति याः कौमार्य-रोग-लक्षणं बाधते।

पात्राणि

मुख्यानि

अज़ुसगावा-साकुटः
जनान् त्रीन् व्रणयित्वा चिकित्सालये प्रविष्टुं विवशीकृतवान् इति आरोपितः साकुटो मायिना सह मेलनात् पूर्वं लोक-विलोकनंवर्जयितुं प्रयतते। मेलनेन कौमार्य-रोग-लक्षणम् आलक्ष्य अन्वेषणम् आरम्भयितुं प्रोत्साहितः। तस्य सहोदर्याः कायेदेः कौमार्य-रोग-लक्षणेन सः अपि ग्रस्तो येन तस्य वक्ष-स्थले तिस्रः क्षतयो जाताः। साकुटस्य जीवनं परिवर्तते यदा सः मायिं मिलति अथ च कौमार्य-रोग-लक्षणं पराभवितुं तस्याः सहाय्यं करोति येन अन्याः सम्बद्ध-रोगेण ग्रस्ताः कन्याः मिलति।
साकुटः सज्जनः परोपकारी च किन्तु अत्यन्तं कटुवाचकः। यदा अन्यैः साकं सम्भाषणं करोति सः अत्यन्तं निन्दकः सत्यवादी स्पष्टवाचकश् च। अश्लील-व्यङ्ग्य-प्रियः अपि। साकुटो निस्स्वार्थः वत्सलश् च यो वारंवारं पर-हिताय स्व-समयं वा स्व-कौशल्यं वा अपि त्यक्तुं सिद्धः अस्ति। तस्य निस्स्वार्थतायाः कारणम् अस्ति कौमार्य-रोग-लक्षणं येन सहोदरी अपि ग्रस्ता जाता अपि च माकिनोहारा-शोको इत्यनया मेलनस्य अनन्तरम् इतोऽपि दयालुर् भवितुं स्वीय कामना। "दुष्टः स्वप्ने लुप्तगायिकां न पश्यति" इति नाम्ना पर्वणि सः महाविद्यालये पठति।
साकुरजीमा-मायिः
अभिनय-कार्य-भारात् श्रान्ता मायिर् विरामं ग्रहीतुं निर्णयति किन्तु अकस्माद् अवगच्छति यद् साकुटम् अतिरिच्य इतरे तस्याः अस्तित्वम् अभिज्ञातुम् अशक्ताः। साकुटः संदर्भम् अवगन्तुं सहाय्यार्थं सहमतिं ददाति। सममेव सा तेन सह स्नेहं वर्धयति। सा प्रथम-वारं ग्रन्थालये साकुटेन साकं मिलति यदा सा लोक-अवलोकनार्थं प्लेबोय-शशक-वेशभूषां धरन्ती अस्ति। व्यतीते समये इतोऽपि अधिकाः जनाः मायेः अस्तित्वं विस्मरन्ति। साकुटम् अतिरिच्य सर्वे विस्मरन्ति। साकुटो मायेर् अस्तित्वम् अथ च ताम् अधिकृत्य सर्वेषां स्मरणानि पुनस्स्थापयितुं शक्नोति यदा स माय्यां स्वीय-स्नेहं घोषयति पूर्ण-विद्यालयस्य समक्षे। तदनु साकुटो मायिश् च प्रणय-बन्धम् आरम्भयितुं प्रयतेते यन् मायेर् अभिनय-वृत्तिर् बाधते। तत्पश्चान् मायिम् अर्ध-सहोदर्या नोदोकायाः कौमार्य-रोग-लक्षणं बाधते येन तरुण्योः स्वीय-शारीरक-रूपयोः विनिमयं भवति। यदा साकुटः सहोदर्योर् मध्ये सामन्जस्य पुनर्स्थापनां कारयति तर्हि एव सामान्य-रूपौ पुनर्प्राप्नुतः। मायिः प्रथम-लघु-उपन्यासस्य अग्रांशु-पात्रम् अस्ति।
मायेः प्रज्ञ-विनम्र-स्वभावः अस्ति। सा परोपकारिणी अपि। सा "साकुटस्य कुख्यातिः असत्यमिति" खयापनं करोति। कायेडिं प्रत्यपि वात्सल्यं प्रदर्शयति। बहु-उपहासं करोति सा किन्तु तस्याः शुचिमनः। बहुवारं तु साकुटस्य न्यङ्ग-परिहासं श्रुत्वा लज्जाम् अनुभवति। साकुटः इव सा अपि निःस्वार्थ-भावेन प्रवर्तते।
कोगा-तोमोयिः
द्वितीय-लघु-उपन्यासस्य अग्र-चरित्रम् अस्ति तोमोयिः या साकुटेन गम्यमाने विद्यालये प्रथम-वत्सर-विद्यार्थिनी। साकुटेन साकं सा प्रथम-वारम् उद्याने मिलति यदा मातुः अन्वेषणार्थं सः कस्याश्चन बालिकायाः सहाय्यं कर्तुं प्रयतते। किन्तु तोमोयिः सन्दर्भे अस्मिन् अन्यथा चिन्तयित्वा साकुटस्योपरि बाल-यौन-शोषणस्य आरोपम् आरोपयति। अत्याधिक-आत्मचेतनाम् अनुभवन्ती सा प्रार्थयति यत् साकुटः स्वीय-प्रेयोवत् आचारतु येन स्वीय-सखयः पृष्ठे तस्याः निन्दां न कुर्वन्ति। परन्तु ताम् आलक्ष्य वातुल-आरोपणानि आरोपितानि भवन्ति तदनु तां रक्षितुं साकुटस्य प्रयासान् दृष्ट्वा तं प्रति तस्याः मनसि प्रेम-भावः उत्पन्नो भवति। दौर्भाग्यवशात् साकुटं प्रति तोमोयेः भावना-कारणात् तयोः सम्बन्धस्य अन्तिम-दिवसस्य पुनः पुनः आवृत्तिः जायते। साकुटः तोमोयिं तस्याः भावनाः विषदीकृत्य पृच्छति येन सा स्वीय-सत्य-भवानानाम् अभिव्यक्तिं करोति किन्तु साकुटो न स्वीकरोति। एवं सत्यपि उभौ स्वीय-मैत्री-बन्धम् अनुवर्तयितुम् अङ्गीकुरुतः।
फ़ुताबा-रियौः
तृतीय-लघु-उपन्यासस्य अग्र-चरित्रम् अस्ति रियौः या मायि-साकुटाभ्याम् गम्यमाने विद्यालये विज्ञान-गोष्ठ्याः एकैका सदस्या साकुटस्य मित्रेषु अन्यतमा च। आदौ सा कौमार्य-रोगः मिथ्या इति विश्वसितवती किन्तु तस्यामेव कौमार्य-रोग-लक्षणानि आरोपितानि जायन्ते। स्वीय-रूपे आत्म-विश्वासस्य अभावात् तस्याः काचन अनुकृतिः सृज्यते किन्तु सा अनुकृतिः भिन्नं व्यक्तित्वं प्रदर्शयति स्वीय-अश्लील-भाव-चित्राणि आभासि-माध्यमेषु संविभाजयति च। द्वयोः रियवोः संयोजनं भवति यदा स्वीय-व्यक्तित्वं स्वीय-मैत्री-बन्धानि च स्वीकर्तुं सकुटः साहाय्यं करोति।
तोयोहामा-नोदोका
चतुर्थ-लघु-उपन्यासस्य अग्र-चरित्रम् अस्ति नोदोका या मायेः अर्ध-सहोदरी गायक-वृन्दस्य सदस्या च। नोदोकायाः हीन-भावना-कारणात् तयोः शरीर-विनिमयम् अभवत् किन्तु यदा मायि-वद् आचरणम् अनावश्यकम् इति नोदोका अवगच्छति तदा पुनर्विनिमयं जातम्। पुनर्मेलनानतरं सामान्य-रूपे धारयतः।
अज़ुसगावा-कायेडिः
साकुटस्य अनुज-स्वसा अपि कौमार्य-रोगेण सङ्क्रमिता यतोहि आभासीय-माध्यमेषु दुष्कर्म-कारणात् जङ्गमदूरवाण्याम् मृत्यु-भर्त्सन-कारणात् च कायेडिः निण्यं वव्रणिता जाता येन अपरिचित-जनेभ्यः भीतिः उत्पन्ना। सामाजिक-माध्यम-उपयोगं वा विद्यालयगमनं वा विरमयित्वा हि रोगशमनं जातम्। तदनु साकुटस्य आवासे वसति यत्र केवलं मार्जार्याः सङ्गतिः विद्यते। भ्रातरं बहु इच्छन्ती सा शयनसमये बहुवारं तस्य शय्यायां शयितुम् आगच्छति। अनन्तरं कायेडिः बहुव्यक्तित्व-विकारेण सङ्क्रमिता इति अवगतम्। सा स्वीय-व्यक्तित्वं विस्मर्य अन्य-कायेडिः अभवत्। व्यतीते काले स्मृतिं लब्ध्वा गत-वर्ष-द्वयस्य घटनानि विस्मरति। अस्य व्यक्तित्वस्य निर्गमने दुखे सति अपि साकुटो भगिन्याः मूल-व्यक्तित्वस्य पुनरागमनं स्वीकृत्य गत-जीवितं पुनर्लब्धुं तस्याः साहाय्यार्थं कृतनिश्चयो भवति। पञ्चम-लघु-उपन्यासस्य अग्र-चरित्रमस्ति।
माकिनोहारा-शोकौः
षष्ठ-सप्त-लघु-उपन्यासयोः अग्र-चारित्रमस्ति शोकौः यस्याः नाम साकुटस्य प्रथम-प्रणय-पात्रस्य नाम अपि अस्ति। सा पूर्व-माध्यमिक-शालायां विद्यार्थिनी अस्ति या कदाचिद् अतिवृष्टि-काले अकस्मादेव साकुटेन साकं मेलति। काले व्यतीते सा एव शोकौः यया सह साकुटः पुरा मेलितवान् किन्तु हृदय-प्रत्यारोपणार्थं स्थानान्तरं कृतवती। कायेडेः स्मृतिलाभानन्तरं शोकौः पुनः साकुटं मेलति एवं च गत-वर्ष-द्वयस्य कायेडेः च्युतेः अनुभूतं दुखं त्यक्तुं साहाय्यं करोति। साकुटस्य उपशमनानन्तरं शोकौः निर्गच्छति किन्तु पुनरागच्छति तथा च "साकुटस्य गृहे किञ्चित् कालं यावत् वसति इति" घोषयति येन मायिः चिन्तां अनुभवति। अनन्तरं द्वे शोकावौ स्तः साकुटस्य मायेः च समयधारयाम् इति अवगम्यते स्म। ज्येष्ठ-रूपस्य उपस्थितेः कारणमस्ति यत् साकुटः ख्रीष्टजयन्ती-दिवसे यान-दुर्घटनातः मरिष्यति येन शोकौः साकुटस्य हृदयं स्वीकृत्य अतिजीवति अत एव साकुटस्य क्षतचिह्नानि सन्ति। यदा मायिः साकुटं रक्षितुं स्वीय-प्राणानां त्यागं करोति तदा शोकौः विगत-समयं प्रति यात्रां कर्तुं साकुटस्य सहाय्यं करोति येन दोषस्य अस्य समाधानं कृत्वा मायिं रक्षितुं शक्यते। सा अपि स्वीय-कौमार्य-रोगस्य कारणं समाधातुं प्राथमिक-पाठशाला-काले गच्छति। अन्य-समय-धारां निर्माति यस्मिन् साकुटः मायिः च शोकवा कदापि न मेलतः। पुनर्मेलनं जातं यदा साकुटः शोकाम् सागर-तटे पश्यति येन विगत-समय-धारायाम् उभाभ्यां यापितस्य कालस्य स्मरणानि पुनर्प्राप्नोति।

सहायक-पात्राणि

कुनिमि-यूमः
साकुटस्य आत्मीयस्नेहितः यः कामिसातो-साकिना साकं प्रीतिबन्धे अस्ति किन्तु साकुटेन सह तस्य मैत्री-बन्धम् अधीकृत्य वारं वारं विवादं भवति। सः साकुटः च एकस्मिन्नेव पारिवारिक-उपाहारगृहे कार्यं कुरुतः।
कामिसातो-साकिः
साकिः यूमस्य प्रेमिका। सा साकुटं द्वेष्टि साकुट-यूमयोः मैत्री-बन्धस्य भङ्गम् इच्छति च यद्धि साकुटस्य एकाकित्वात् यूमस्य तथा च विशेषतया तस्याः अपि लोकप्रियतां न्यूनीभवति।
नाञ्जो-फ़ुमिका
फूमिका वार्ताहरा या कौमार्य-रोगम् आलक्ष्य जिज्ञासा अस्ति तथा च साकुटस्य क्षति-चिह्नानि रोग-कारणादेव इति विश्वसिति।

माध्यमम्

लघु-उपन्यासाः

"दुष्टः स्वप्नं न पश्यति" नामधेय-पुस्तकं कमोषिदा हाजिमेयः लिखितवान्। चित्रीकरणम् मिज़ोगुचि-केयिजिः कृतवान्। 2014 तमे वर्षे अप्रैल-मासाद् आरभ्य देङ्गेकी-बुन्को-इति वाणिज्यिक-नाम्ना 12 पर्वाणि प्रकाशितानि आस्की-मीदिया-वाक्सु-संस्थया। विंशत्युत्तर-द्वि-सहस्रतमे वर्षे अष्ट-विंशे-दिनाङ्काद् आरभ्य येन् नामिकः मुद्रणालयः आङ्ग्ल-भाषान्तरणं प्रकाशयति।[१]

"दुष्टः _____ स्वप्नं न पश्यति" इति व्याक्ये रिक्तस्थाने पूरयित्वा प्रत्येकं पर्वणः शीर्षकं निर्मितम्।

चित्र-कथा

चित्र-कथायां रूपान्तरणं नानामिया-ट्सुगुमिना कृतवान् यस्य प्रकाशनम् आस्की-मीदिया-वाक्सु-संस्थायाः पञ्चदशोत्तर-द्वि-सहस्र-तमे वर्षे  दिसम्बर-मासे प्रथम-दिवसे विमोचितायां देङ्गेकी-जीसु-कोमिक्कु इति पत्रिकायां द्विसहस्रतमे वर्षे जनवरी-मासीय-प्रकाशने आरब्धम्।[२][३] Yen Press has been publishing the English version of the manga in a 2-in-1 omnibus edition since August 18, 2020.[४]

Anime

A 13-episode anime television series adaptation, titled Rascal Does Not Dream of Bunny Girl Senpai, aired from October 4 to December 27, 2018, on ABC and other channels.[५][६][७][lower-alpha १] The series was animated by CloverWorks and directed by Sōichi Masui, with Kazuya Iwata as assistant director, Masahiro Yokotani handling series composition, and Satomi Tamura designing the characters. The band Fox Capture Plan composed the series' music. Satomi Tamura also served as the chief animation director along with Akira Takata.[८] The anime series adapts the series' first through fifth volumes. The opening theme is फलकम्:Nihongo by The Peggies. The ending theme is फलकम्:Nihongo, with each arc using versions by Asami Seto, Yurika Kubo, Nao Tōyama, Atsumi Tanezaki, Maaya Uchida, and Inori Minase under their character names.[९][१०] Aniplex of America has licensed the series and it is streamed on Crunchyroll, Hulu, FunimationNow, and Netflix.[११][१२][१३] Aniplex of America released a complete Blu-ray set on November 19, 2019, with English subtitles.[१४] In Australia and New Zealand, the series was simulcast on AnimeLab,[१५] and in Southeast Asia on Aniplus Asia. MVM Entertainment acquired the series for distribution in the UK and Ireland.[१६]

An anime film adaptation, titled फलकम्:Nihongo, premiered on June 15, 2019.[१७] The film adapts the series' sixth and seventh volumes.[१८] The staff and cast reprised their roles from the anime.[१९]

During the Aniplex Online Fest event in September 2022, it was announced that a sequel adapting the eighth and ninth light novel volumes has been greenlit.[२०] It was later revealed to be a film, titled Rascal Does Not Dream of a Sister Venturing Out, with the main staff and cast returning from the previous adaptation. The film will be released theatrically in Japan on June 23, 2023.[२१]

टिप्पण्यः

आधारसङ्केताः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान