दमोहमण्डलम्

दमोहमण्डलम् ( /ˈdəmhəməndələm/) (हिन्दी: दमोह जिला, आङ्ग्ल: Damoh district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दमोह इति नगरम् ।

दमोहमण्डलम्

Damoh District
दमोह जिला
दमोहमण्डलम्
दमोहमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे दमोहमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे दमोहमण्डलम्
देशः India
राज्यम्मध्यप्रदेशः
उपमण्डलानिदमोह, तेन्दुखेडा, हटा, पथरिया, जवेरा, बटीयागढ, पटेरा
विस्तारः७,३०६ च. कि. मी.
जनसङ्ख्या (२०११)१२,६४,२१९
Time zoneUTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता६९.७३%
भाषाःहिन्दी, आङ्ग्लं
लिङ्गानुपातःपु.-५०%, स्त्री.-४५.५%
Websitehttp://damoh.nic.in/

भौगोलिकम्

दमोहमण्डलस्य विस्तारः ७,३०६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे कटनीमण्डलं, पश्चिमे सागरमण्डलम्, उत्तरे छतरपुरमण्डलं, दक्षिणे जबलपुरमण्डलम् अस्ति । अस्मिन् मण्डले सोनारनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं दमोहमण्डलस्य जनसङ्ख्या १२,६४,२१९ अस्ति । अत्र ६,६१,८७३ पुरुषाः, ६,०२,३४६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१० अस्ति । अत्र साक्षरता ६९.७३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- दमोह, तेन्दुखेडा, हटा, पथरिया, जवेरा, बटीयागढ, पटेरा ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले वज्रचूर्णस्य उच्चतमः व्यापारः अस्ति । अस्मात् मण्डलात् आभारतं वज्रचूर्णः विक्रयणार्थं प्रेष्यते ।

वीक्षणीयस्थलानि

नोहलेश्वर-मन्दिरम्

नोहलेश्वर-मन्दिरं नोहटा-ग्रामात् १ कि. मी. दूरे अस्ति । अस्मिन् मन्दिरे एकं भव्यं शिवलिङ्गम् अस्ति । शिवस्य अपरं नाम महादेव इति । अतः जनाः नोहलेश्वरमहादेव इति नाम्ना अपि इदं मन्दिरं जानन्ति । अस्य मन्दिरस्य निर्माणम् ई. ९५०-१००० तमे वर्षे अवनि वर्मा इत्यनया राज्ञ्या कारितम् । सा राज्ञी चालुक्य-वंशीया आसीत् ।जटाशङ्कर, गिरि दर्शन, निदानकुण्ड, सद्भावना शिखर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयानि स्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://damoh.nic.in/
http://www.census2011.co.in/census/district/295-damoh.html

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=दमोहमण्डलम्&oldid=463956" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान