जी२०

EU १९ देशानां च अन्तर्राष्ट्रिय शिबिका

G20 - जी २० (विंशतिः राष्ट्राणां समूहः) इत्येका अन्ताराष्ट्रिया संस्था विद्यते । जी-२० (वैंशतः)विंशतीनां वित्तमन्त्रीणां तथैव सेण्ट्रलबैंकसमूहस्य नियन्त्रकाणां (governors of centrel banks) समूहः जी-२० अथवा विंशतीनां समूहः (वैंशतः) इति कथ्यते । यो हि विश्वस्य विंशतीनाम् प्रमुखार्थव्यवस्थानां वित्तमन्त्रीणां तथा केन्द्रियवित्तकोषनियन्त्रकाणां सङ्घटनं वर्तते । अस्य स्थापना १९९९तमे ख्रिस्ताब्दे अभवत् । अस्मिन् सङ्घटने उनविंशतिः देशाः यूरोपीयसङ्घः च सम्मिलिताः सन्ति । अस्य सङ्घटनस्य प्रतिनिधित्वं यूरोपीयसङ्घीयपरिषदः अध्यक्षेण यूरोपीयकेन्द्रियवित्तकोषै च क्रियते । द्वादशतमस्य वैंशतस्य शिखरसम्मेलनस्य आयोजनं २०१७ तमे वर्षे जुलाइमासस्य ७म ८मयोः दिनाकयोः जर्मनीदेशस्य हैम्बर्गनगरे एन्जेलामर्केलमहोदयस्य आध्यक्षे अभवत् ।

सदस्यता

अस्य सङ्घटनस्य सदस्यराष्ट्राणि वर्तन्ते -

  1. अर्जेण्टीना 
  2. ऑस्ट्रेलिया 
  3. ब्राज़ीलदेशः
  4. कनाडा 
  5. चीन-जनवादी-गणराज्यम्
  6. यूरोपीयसंघः
  7. फ़्रान्सदेशः
  8. जर्मनीदेशः
  9. भारतराष्ट्रम्
  10. इंडोनेशिया
  11. इटली 
  12. जापानदेशः
  13. मेक्सिको 
  14. रूसदेशः 
  15. अरबदेशः  
  16. दक्षिण-अफ़्रीका
  17. दक्षिण-कोरिया 
  18. तुर्की
  19. राज्यसङ्घः (यूनाइटेड किंगडम्)
  20. संयुक्तराज्य-अमेरिका

वर्तमानः अध्यक्षः - नरेन्द्र मोदी (२०२३)

वैंशतसम्मेलने प्रतिनिधिरूपेण नवदशदेशानां प्रतिनिधयः सम्मिलिताः भवन्ति, तथा चैकः यूरूपसङ्घः भवति । नेतृणां शिखरसम्मेलने नवदशदेशानां नेतारः यूरोपसङ्घस्य नेता चैते सम्मिलिताः भवन्ति । मन्त्रिस्तरीयेषु सङ्गोष्ठीसु नवदशदेशानां वित्तमन्त्रीणां केन्द्रियवित्तकोषस्य नियन्त्रकाणां तथैव यूरपसङ्घस्य वित्तमन्त्रि-केन्द्रियवित्तकोषनियन्त्रकौ च एते भागं गृह्णन्ति ।

स्पेनदेशः अस्य एकः स्थायी अतिथिः अस्ति‌ यः प्रतिवर्षम् आमंत्र्यते ।

प्रतिवर्षं स्पेनदेशम् अतिरिच्य‌ वैंशतस्य अतिथिषु दक्षेसराष्ट्रसङ्घस्य (दक्षिण-एशिया-राष्ट्रसङ्घटनम्) अध्यक्षः अफ्रीकासङ्घस्य अध्यक्षः तथा च अफ्रीकायाः विकासार्थं सहयोगिसमूहस्य प्रतिनिधिः, तथैव वैंशतस्य अध्यक्षः आमन्त्र्यते ।

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=जी२०&oldid=479252" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान