काकमाची

एषा काकमाची अपि भारते वर्धमानः कश्चन हरितकविशेषः । एषा काकमाची अपि एकविधं सस्यम् अस्ति । अतः एषा काकमाची अपि सस्यजन्यः आहारपदार्थः । एतत् काकमाचीसस्यम् आङ्ग्लभाषायां Belladonna, Devil's Berries, Death Cherries or Deadly Nightshade इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Atropa belladonna इति । अनया काकमाच्या उपसेचनं, ताक्रं, दाधिकम् इत्यादिकं निर्मीयते ।

Belladonna or Deadly Nightshade
Illustration from Köhler's Medicinal Plants 1887
Illustration from Köhler's Medicinal Plants 1887
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
गणःSolanales
कुलम्Solanaceae
वंशःAtropa
जातिःA. belladonna
द्विपदनाम
Atropa belladonna
L.
काकमाचीसस्यं, फलं च
काकमाचीपुष्पम्

इयं काकमाची यद्यपि औषधीयं सस्यं तथापि आहारत्वेन अपि उपयुज्यते । अनया काकमाच्या ताक्रं, दाधिकं चपि निर्मीयते । अस्याः काकमाच्याः पर्णं, फलं, पुष्पं चापि औषधत्वेन उपयुज्यन्ते । अस्याः काकमाच्याः फलेषु “सोलानिन्” नामकः अंशः भवति । तस्मिन् “सोलानिन्” – अंशे “शकार” तथा “सोलानिडिन्” नामकौ आल्कलाय्ड् – अंशौ भवतः ।

इतरभाषाभिः अस्याः काकमाच्याः नामानि

इयं काकमाची आङ्ग्लभाषया “ब्ल्याक् नैर् शेड्” इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Solanumnigrum इति । हिन्दीभाषया“गुक्कमायि” इति, तेलुगुभाषया“कमञ्चिचेट्टु” इति, तमिळ्भाषायां “मनत्तक्कलि” इति, मलयाळभाषया“तुडवलम्” इति, कन्नडभाषया“गणिके” अथवा “कागे गिड” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्याः काकमाच्याः प्रयोजनानि

अस्याः काकमाच्याः रसस्य रुचिः तिक्तः । इयम् अत्यन्तं शीतला पचनार्थं लघु चापि ।१.अस्याः काकमाच्याः फलं हृदयस्य विकारेषु अत्यन्तं हितकरम् ।२.अस्याः पर्णस्य रसः हृदयरोगे, चर्मरोगेषु, मूलव्याधौ, “गोनोरिया” रोगे, यकृत् तथा प्लीहवृद्धौ, शोथे च उपयुज्यते । ३.अस्याः काकमाच्याः पुष्पैः, फलैः च निर्मितं कषायं कासे, क्षये च पाययन्ति ।४.अस्याः काकमाच्याः पर्णानि आमवाते, वातरक्ते च लेपनार्थम् उपयुज्यन्ते ।५.वृषणे शोथः, वेदना च अस्ति चेत् अस्याः काकमाच्याः पर्णम् उष्णीकृत्य तदुपरि संस्थाप्यते ।६.चर्मरोगेषु अपि अस्याः पर्णानि लेपनार्थम् उपयुज्यन्ते ।७.अस्याः रसायनं निद्राजनकं, मूत्रलं, शुक्रलं चापि ।८.उष्णविकारं, उष्णजन्यान् रोगान् च इयं काकमाची निवारयति ।

अस्याः काकमाच्याः प्रयोजनानि

१ अस्य काकमाचीसस्यस्य पर्णानि फलानि च आहारत्वेन, औषधत्वेन च उपयुज्यन्ते ।
२ अस्य फलस्य सेवनेन मुखे जाताः पिटकाः निवारिताः भवन्ति ।
३ एषा काकमाची अत्यन्तं लेखनगुणयुक्ता ।
४ अस्याः काकमाच्याः सेवनेन शरीरस्य औष्ण्यं न्यूनं भवति । औष्ण्यस्य आधिक्येन जातानां रोगाणां निमित्तम् अपि उत्तमम् औषधम् एतत् ।
५ तुषाणां निवारणार्थम् अपि काकमाच्याः पत्राणि कुट्टयित्वा रसं शिरसि लेपयन्ति ।

ताक्रस्य निर्माणम्

अस्याः काकमाच्याः ताक्रस्य निर्माणम् अपि अत्यन्तं सुलभम् । पत्राणि प्रक्षाल्य नारिकेलेन सह पेषणं करणीयम् । अनन्तरं तत् तक्रे योजनीयम् । तदनन्तरं जीरिकां, हरिन्मरीचिकां च व्याघरणे संयोज्य तस्मिन् ताक्रे योजनीयम् । एतत् ताक्रम् अन्नेन सह सेवितुं, तथैव पातुं च शक्यते ।

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=काकमाची&oldid=395432" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान