कटनीमण्डलम्

कटनीमण्डलम् ( /ˈkətənməndələm/) (हिन्दी: कटनी जिला, आङ्ग्ल: Katni district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति कटनी इति नगरम् ।

कटनीमण्डलम्

katni District
कटनी जिला
कटनीमण्डलम्
कटनीमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे कटनीमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे कटनीमण्डलम्
देशः India
राज्यम्मध्यप्रदेशः
उपमण्डलानिविजयराघवगढ, मुरवाडा, रिठी, बहोरीबन्द, धीमरखेडा, बरही, बदवाडा
विस्तारः४९५० च. कि. मी.
जनसङ्ख्या (२०११)१२,९२,०४२
Time zoneUTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता७१.९८%
भाषाःहिन्दी, आङ्ग्लं
लिङ्गानुपातःपु.-५०%, स्त्री.-४७.५%
Websitehttp://katni.nic.in/

भौगोलिकम्

कटनीमण्डलस्य विस्तारः ४,९५० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उमरियामण्डलं, पश्चिमे दमोहमण्डलम्, उत्तरे पन्नामण्डलं, दक्षिणे जबलपुरमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं कटनीमण्डलस्य जनसङ्ख्या १२,९२,०४२ अस्ति । अत्र ६,६२,०१३ पुरुषाः, ६,३०,०२९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५२ अस्ति । अत्र साक्षरता ७१.९८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- विजयराघवगढ, मुरवाडा, रिठी, बहोरीबन्द, ढीमरखेडा, बिलहरी, बदवाडा ।

कृषिः वाणिज्यं च

इदं मण्डलं चूर्णपाषाणेभ्यः प्रख्यातम् अस्ति । तत्र चूर्णस्य व्यापारः अत्यधिकः प्रचलति । अस्मिन् मण्डले सस्योदपादनानि अत्यधिकपरिमाणे प्राप्यन्ते । तेषु गोधूमः प्रमुखः अस्ति । अन्ये अपि बहवः उद्यमाः सन्ति । यन्त्रागाराः अपि बहवः सन्ति । अत्र कृषि उपजमण्डी अस्ति यस्याः स्थानं भारते प्रथमम् आयाति ।

वीक्षणीयस्थलानि

विजयराघवगढदुर्गः

अयं कटनीमण्डलस्य सुन्दरः दुर्गः अस्ति । अयं दुर्गः कटनी-नगरात् ३२ कि. मी. दूरे अस्ति । राज्ञा प्रयागदासेन तस्य दुर्गस्य निर्माणं कारितम् । तस्मिन् दुर्गे भगवतः विजयराघवस्य मन्दिरम् अपि निर्मापितम् । अतः तस्य दुर्गस्य विजयराघवगढ इति नाम । तस्य समीपे ’रङ्गमहल’-नामकं भवनमस्ति । बहोरीबन्द, रूपनाथ, झीन्झारी एतानि अपि कटनीमण्डलस्य मुख्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://katni.nic.in/
http://www.census2011.co.in/census/district/317-katni.html

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कटनीमण्डलम्&oldid=463975" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान