मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
रामानुजाचार्यः

विशिष्टाद्वैतवेदान्तः त्रिषु वेदान्तेषु अन्यतमः। रामानुजाचार्यः अस्य प्रवर्तकः विद्यते। अस्य सिद्धान्तस्य आधाराभूतानि प्रस्थानत्रयाणि। अतीवप्राचीनानाम् उपनिषद्विचारधाराणाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः। अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम् अस्ति। तथापि, ब्रह्मादीनमेव ब्रह्मतत्वं विना नभवन्ति। ब्रह्मवस्तूनः अपृथक्सिद्धानि विशेषणानि भवन्ति इति प्रतिपादितम् अस्मिन्। चेतनाचेतनविशिष्टः ब्रह्मा एकः एव इति स्फुटसिद्धान्तः। उपनिषद्प्रतिपाद्यः ब्रह्मवस्तु श्रीमन्नारायणः एव इति अस्य सिद्धान्तस्य अर्थः। अस्मिन् सिद्धान्ते प्रतिपादिता या ईश्वरभावना सा पाञ्चरात्रागमेषु प्रतिपादितस्य भागवतसम्प्रदायस्य अनुगुणम् अस्ति। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
आस्तिकदर्शनानि दर्शनकाराः च -

(यानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकानि)

साङ्ख्यदर्शनम् - कपिलः
योगदर्शनम् - पतञ्जलिः
न्यायदर्शनम् - गौतमः
वैशेषिकदर्शनम् - कणादः
पूर्वमीमांसा - जैमिनिः
उत्तरमीमांसा - व्यासः



आधुनिकलेखः
आधुनिकाः लेखाः
मदनमोहनमालवीयः

मदनमोहनमालवीयः इत्याख्यः महापुरुषः अस्मिन् देशे जातः। श्रीमालवीयः अत्यन्तप्रज्ञावान्। मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः, अपि तु देशोऽपि भाग्यशाली अभवत्। उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति। मालवीयस्य पूर्वजाः तत्र आसन्। नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः। मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत्। १८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः। तेषां प्रयत्नाः सफलाः न जाताः। भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत्। तेन भारतीयजीवने महान् परिणामः जातः। धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म। वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्

अकाले कृत्यमारब्धं कर्तुरनर्थाय कल्पते।
तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥

शान्तिपर्व १३८/९५

कार्यकरणात् पूर्वं विवेकी मनुष्यः परिस्थितिम् अवलोकयेत्। असमये आरब्धं कार्यं कर्तुः लाभदायकं न भवेत्। किन्तु तदेव कार्यं यदि समीचीने समये क्रियेत तर्हि तत् नितराम् उपयुक्तकरं स्यात्।


सहपरियोजनाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान