मदनमोहनमालवीयःमदनमोहनमालवीयः इत्याख्यः महापुरुषः अस्मिन् देशे जातः। श्रीमालवीयः अत्यन्तप्रज्ञावान्। मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः, अपि तु देशोऽपि भाग्यशाली अभवत्। उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति। मालवीयस्य पूर्वजाः तत्र आसन्। नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः। मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत्। १८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः। तेषां प्रयत्नाः सफलाः न जाताः। भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत्। तेन भारतीयजीवने महान् परिणामः जातः। धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म। वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः। (अधिकवाचनाय »)
|